|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.259. अध्यायः 259
Mahabharata - Adi Parva - Chapter Topics
पुत्रांश्चन्तयन्तं मन्दपालं प्रति लपितायाः सासूयवचनम्॥ 1 ॥ अग्निशान्त्यनन्तरं आत्मदिदृक्षयाऽऽगतं मन्दपालं प्रति भार्यया पुत्रैश्च उपालम्भः॥ 2 ॥।
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-259-0x(1364)(11195)
मन्दपालोऽञपि कौरव्यं चिन्तयामास पुत्रकान्।
उक्त्वाऽपि च स तिग्मांशुं नैव शर्माधिगच्छति॥ 1-259-1(11196)
स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत्।
कथं नु शक्ताः शरणे लपिते मम पुत्रकाः॥ 1-259-2(11197)
वर्धमाने हुतवहे वाते चाशु प्रवायति।
असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः॥ 1-259-3(11198)
कथं त्वशक्ता त्राणाय माता तेषां तपस्विनी।
भविष्यति हि शोकार्ता पुत्रत्राणमपश्यती॥ 1-259-4(11199)
कथमुड्डीयनेऽशक्तान्पतने च ममात्मजान्।
सन्तप्यमाना बहुधा वाशमाना प्रधावती॥ 1-259-5(11200)
जरितारिः कथं पुत्रः सारिसृक्कः कथं च मे।
स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी॥ 1-259-6(11201)
लालप्यमानं तमृषइं मन्दपालं तथा वने।
लपिता प्रत्युवाचेदं सासूयमिव भारत॥ 1-259-7(11202)
न ते पुत्रेष्ववेक्षाऽस्ति यानृषीनुक्तवानसि।
तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम्॥ 1-259-8(11203)
त्वयाऽग्नौ ते परीताश्च स्वयं हि मम सन्निधौ।
श्रुतं तथा चेति ज्वलनेन महात्मना॥ 1-259-9(11204)
पलो न तां वाचमुक्त्वा मिथ्या करिष्यति।
न्धुकृत्ये न तेन ते स्वस्थ मानसम्॥ 1-259-10(11205)
तामेव तु ममामित्रां चिन्तयन्परितप्यसे।
ध्रुवं मयि न ते स्नेहो यथा तपयं पुराऽभवत्॥ 1-259-11(11206)
नहि पक्षवता न्याय्यं निः हेन सुहृज्जने।
पीड्यमान उपद्रष्टुं शक्तेना मा कथंचन॥ 1-259-12(11207)
गच्छ त्वं जरितामेव यदर्थं परितप्यसे।
चरिष्याम्यहमप्येका यथा पुरुषाश्रिता॥ 1-259-13(11208)
मन्दपाल उवाच। 1-259-14x(1365)
नाहमेवं चरे लोके यथा त्वमभिमन्यसे।
अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम॥ 1-259-14(11209)
भूतं हित्वा च भाव्यर्थे योऽवलम्बेत्स मन्दधीः।
अवमन्येत तं लोको यथेच्छसि तथा कुरु॥ 1-259-15(11210)
एष हि प्रज्वलन्नग्निर्लेलिहानी महीरुहान्।
आविग्ने हृदि सन्तापं जनयत्यशिवं मम॥ 1-259-16(11211)
वैशम्पायन उवाच। 1-259-17x(1366)
`भर्तुर्हि वाक्यं सा श्रुत्वा लपिता दुःखिताऽभवत्।
सान्त्वयामास च पुनः पति पतिपरायणा॥' 1-259-17(11212)
तस्माद्देशादतिक्रान्ते ज्वलने जरिता पुनः।
जगाम पुत्रकानेन जरिता पुत्रगृद्धिनी॥ 1-259-18(11213)
सा तान्कुशलिनः सर्वान्विमुक्ताञ्जातवेदसः।
रोरूयमाणान्ददृशे वने पुत्रान्निरामयान्॥ 1-259-19(11214)
अश्रूणि मुमुचे तेषां दर्शनात्सा पुनःपुनः।
`न श्रद्धेयं ततस्तेषांर्शनं वै पुनःपुनः॥ 1-259-20(11215)
इति मत्वाऽब्रवीद्वाकजरिता पुत्रगृद्धिनी।'
एकाकशश्च पुत्रांस्तन्त्र्शमानान्वपद्यत॥ 1-259-21(11216)
`जरिता तु परिष्वज्युत्रस्नेहाच्चुचुम्ब ह॥' 1-259-22(11217)
ततोऽभ्यगच्छत्सहसमन्दपालोऽपि भारत।
अथ ते सर्व एवैनं भ्यनन्दंस्तदा सुताः॥ 1-259-23(11218)
`गुरुत्वान्मन्दपालस्तपसश्च विशेषतः।
अभिवादामहे सर्वे तपक्षाः प्रसादतः॥ 1-259-24(11219)
एवमुक्तवतां तेषां तनन्द्य महातपाः।
परिष्वज्य ततो मू उपाघ्राय च बलकान्।
पुत्रान्स्वयं समाहूयतः प्रोवाच गौतमः॥' 1-259-25(11220)
लालप्यमानमेकैकंरितां च पुनःपुनः।
न चैवोचुस्तदा किंतमृषिं साध्वसाधु वा॥ 1-259-26(11221)
मन्दपाल उवाच। 1-259-27x(1367)
ज्येष्ठः सुतस्ते कत कतमस्तस्य चानुजः।
मध्यमः कतमश्चैव यान्कतमश्च ते॥ 1-259-27(11222)
एवं ब्रुवन्तं दुःखाकं मा न प्रतिभाषसे।
कृतवानस्मि हव्यानैव शान्तिमितो लभे।
`एवमुक्त्वा तु तां मन्दपालस्तदाऽस्पृशत्॥' 1-259-28(11223)
जरितोवाच। 1-259-29x(1368)
किं नु ज्येष्ठेन ते किमनन्तरजेन ते।
किं वा मध्यमजातेन किं कनिष्ठेन वा पुनः॥ 1-259-29(11224)
यां त्वं मां सर्वतो हीनामुत्सृज्यासि गतः पुरा।
तामेव लपितां गच्छ तरुणीं चारुहासिनीम्॥ 1-259-30(11225)
मन्दपाल उवाच। 1-259-31x(1369)
न स्त्रीणां विद्यते किंचिदमुत्र पुरुषान्तरात्।
सापत्नकमृते लोके नान्यदर्थविनाशनम्॥ 1-259-31(11226)
वैराग्निदीपनं चैव भृशुद्वेगकारि च।
सुव्रता चापि कल्याणी सर्वभूतेषु विश्रुता॥ 1-259-32(11227)
अरुन्धती महात्मानं वसिष्ठं पर्यशङ्कत।
विशुद्धभावमत्यन्तं सदा प्रियहिते रतम्॥ 1-259-33(11228)
सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम्।
अपध्यानेन सा तेन धूमारुणसमप्रभा।
लक्ष्याऽलक्ष्या नाभिरूपा निमित्तमिव पश्यति॥ 1-259-34(11229)
अपत्यहेतोः संप्राप्तं तथा त्वमपि मामिह।
इष्टमेवं गते हि त्वं सा तथैवाद्य वर्तते॥ 1-259-35(11230)
न हि भार्येति विश्वासः कार्यः पुंसा कथंचन।
न हि कार्यमनुध्याति नारी पुत्रवती सती॥ 1-259-36(11231)
वैशम्पायन उवाच। 1-259-37x(1370)
ततस्ते सर्व एवैनं पुत्राः सम्यगुपासते।
स च तानात्मजान्सर्वानाश्वासयितुमुद्यतः॥ ॥ 1-259-37(11232)
इति श्रीमन्महाभारते आदिप्रवणि मयदर्शनपर्वणि ऊनषष्ट्यधिकद्विशततमोऽध्यायः॥ 259 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-259- 1-259-10 1-259-12 मिति ङ. पाठः॥ 1-259-13 ह्यपुरुषा तथा इति ङ. पाठः॥ ऊनषष्ठ्यधिकद्विशततमोऽध्यायः॥ 259 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|